|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.30. अध्यायः 030
Mahabharata - Karna Parva - Chapter Topics
शल्येन सारथीभूयाधिष्ठितं रथमधिष्ठाय कर्णस्य रणाय निर्याणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-30-0x(4910)(56343)
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः॥ 8-30-1(56344)
यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम्॥ 8-30-2(56345)
योधे त्वयि रथस्थे च मद्रराजे च सारथौ।
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति॥ 8-30-3(56346)
सञ्जय उवाच। 8-30-4x(4911)
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्।
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते॥ 8-30-4(56347)
कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान्।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम्॥ 8-30-5(56348)
इत्युक्तो रथमास्थाय तथेति प्राह भारत।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत्॥ 8-30-6(56349)
त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्॥ 8-30-7(56350)
ततो जैत्रं रथवरं गन्धर्वनगरोपमम्।
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्॥ 8-30-8(56351)
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि।
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा॥ 8-30-9(56352)
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्।
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत्॥ 8-30-10(56353)
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्।
आरुरोह महातेजाः शल्यः सिंह इवाचलम्॥ 8-30-11(56354)
ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम्।
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः॥ 8-30-12(56355)
तावेकरथमारूढावादित्याग्निसमत्विषौ।
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि॥ 8-30-13(56356)
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ।
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे॥ 8-30-14(56357)
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ।
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः॥ 8-30-15(56358)
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान्।
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्॥ 8-30-16(56359)
तं रथस्थं महाबाहुं युद्वायामिततेजसम्।
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत्॥ 8-30-17(56360)
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे।
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्॥ 8-30-18(56361)
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ।
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्॥ 8-30-19(56362)
ताभ्यां यदकृतं वीर वीरकर्म महामृधे।
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः॥ 8-30-20(56363)
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम्।
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि॥ 8-30-21(56364)
जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ।
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्॥ 8-30-22(56365)
ततस्तूर्यसहस्राणि भेरीणामयुतानि च।
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि॥ 8-30-23(56366)
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः।
अभ्यभाषत राधेयः शल्यं युद्धविशारदम्॥ 8-30-24(56367)
चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम्।
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्॥ 8-30-25(56368)
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः।
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च॥ 8-30-26(56369)
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्।
पाण्डवानां विनाशाय दुर्योधनजयाय च॥ 8-30-27(56370)
सञ्जय उवाच। 8-30-28x(4912)
एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत्।
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे॥ 8-30-28(56371)
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान्।
अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान्।
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः॥ 8-30-29(56372)
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः।
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि॥ 8-30-30(56373)
यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे।
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि॥ 8-30-31(56374)
यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा।
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे॥ 8-30-32(56375)
अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान्।
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि॥ 8-30-33(56376)
सञ्जय उवाच। 8-30-34x(4913)
अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम्।
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर॥ ॥ 8-30-34(56377)
इति श्रीमन्महाभारते कर्णपर्वणि त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-30-2 हरिहयैरिन्द्रतुरगैर्युक्तं रथम्॥ 8-30-4 अध्युषिते प्रातःकाले॥ 8-30-30 त्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|